Home > Essay > Sanskrit Essay > संस्कृत भाषा का महत्व संस्कृत निबंध

संस्कृत भाषा का महत्व संस्कृत निबंध

Importance of Sanskrit Language in Sanskrit: नमस्कार दोस्तों, यहां पर हमने संस्कृत भाषा के महत्व पर संस्कृत में निबंध लिखा है। यह निबंध सभी कक्षाओं के विद्यार्थियों के लिए मददगार साबित होगा ऐसी हम उम्मीद करते हैं। यहां पर हमने Sanskrit ka Mahatva Essay in Sanskrit के 5 से अधिक संस्कृत निबंध (Sanskrit Nibandh) शेयर किये है।

Importance of Sanskrit Language in Sanskrit
संस्कृत भाषा महत्व (Importance of Sanskrit Language in Sanskrit)

उम्मीद करते हैं आपको यह संस्कृत भाषा का महत्व संस्कृत निबंध (Sanskrit Bhasha ka Mahatva Essay in Sanskrit) पसंद आयेंगे, इन्हें आगे शेयर जरूर करें।

Read Also: संस्‍कृत में अन्य महत्वपूर्ण निबंध

संस्कृतभाषायाः महत्त्वम् | Importance of Sanskrit Language in Sanskrit

संस्कृत भाषा के महत्व पर 10 वाक्य (10 Lines on Importance of Sanskrit in Sanskrit)

  1. संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।
  2. संस्‍कृता भाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते।
  3. संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति।
  4. संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति।
  5. सर्वासामेताषा भाषाणाम इय जननी।
  6. संस्‍कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति।
  7. वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।
  8. इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं।
  9. संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं।
  10. संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति।

मम प्रिया भाषा संस्कृत निबंध 50 शब्दों में (Essay on Importance of Sanskrit in Sanskrit)

सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते।

अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।

संस्कृत भाषाया महत्त्वम् निबंध 100 शब्दों में (Importance of Sanskrit Essay in Sanskrit)

संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतम् भारतस्य जगत: च भाषासु प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी।

importance of sanskrit language in sanskrit
मम प्रिय भाषा संस्कृत निबंध (importance of sanskrit language in sanskrit)

संस्कृत भाषा पर निबंध संस्कृत में 200 शब्दों में (Sanskrit Bhashyam Mahatvam in Sanskrit)

संस्कृतम् भारतस्य विश्वस्य च पुरातनतमा भाषा। अन्यास भाषाणां तथा पुरातनं साहित्यमद्य नोपलभ्यते यथा पुरातनं संस्कृतसाहित्यम्। विश्वस्य पुरातनतमो ग्रन्थः ऋग्वेदः संस्कृतभाषयैव निबद्धः। इयमतीव वैज्ञानिकी भाषा, अस्या पाणिनिमुनिप्रणीतं व्याकरणमतीव वैज्ञानिकं यस्य साहाय्येन अद्यापि वयं तान् पुरातनग्रन्थान् अवबोधुं शक्नुमः।

संस्कृतमेव हि भारतम्। यदि वयं प्राचीन भारतमर्वाचीनं वापि भारतं ज्ञातुमिच्छामः तह नास्ति संस्कृतसमोऽन्य उपायः। भारतीयजनस्य अद्यापि यत् चिन्तनं तस्य मूलं प्राचीनसंस्कृतवाङ्मये दृश्यते। यदि च तत् चिन्तनं वयं नूतनविज्ञानाभिमुख कर्तुमिच्छामस्तह तस्य मूलं पृष्ठभूमि च अविज्ञाय विच्छिन्नरूपेण कतु न शक्नुमः। यदि वयमिच्छामो यत् भारतीयजनः परिवर्तनम् आत्मसात् कुर्यात् तदा तेन परिवर्तनेन आत्मरूपेण संस्कृतिमयेन संस्कृतमयेन च भाव्यम्।।

संस्कृतस्य शब्दाः सर्वासु भारतीयभाषासु कासुचित् वैदेशिकभाषासु च प्रयुज्यन्ते। अतः यदि वयं भारतीयजनानामेकीभावं, तेषां भाषागतम् अभेदं सौमनस्यं च इच्छामः तदा संस्कृतज्ञानेनैव तत सम्भाव्यते। संस्कृतं सर्वाः-भारतीयभाषाः सर्वं जनमानसं च एकसूत्रेण संयोजयति। प्राचीनभारतीयेतिहासस्य भूगोलस्य च समीचीनं चित्रं संस्कृताध्ययनं विना असम्भवम्।

संस्कृतसाहित्यम् अति समृद्धं विविधज्ञानमयं च वर्तते। अत्र वैदिकं ज्ञानमुपलभ्यते, यस्य क्वचिदपि साम्यं नास्ति। महाभारतं तु विश्वकोशरूपमस्ति। रामायणशिक्षाः दिशि दिशि प्रचरिताः। उपनिषद्भिर्वैदेशिकैरपि विद्वद्भिः शान्तिः प्राप्ता। कालिदासादीनां काव्यानाम् उत्कर्षस्य तु कथैव का।

चरकसुश्रतयोरायुर्वेदः, भारद्वाजस्य विमानशास्त्रम्, कणादस्य परमाणुविज्ञानम्, गौतमस्य तर्कविद्या, शुल्बसूत्राणां ज्यामितिविज्ञानम्, आर्यभटस्य खगोलशास्त्रम् इत्येवमादीनि अनेकानि विज्ञानानि शास्त्राणि च संस्कृतभाषोपनिबद्धान्येव। अद्यापि राजनीतिविषये शासनतन्त्रविषये च कौटिल्यस्य अर्थशास्त्रं मनुस्मृतिश्च मार्गप्रदर्शके स्तः।

वयं भारतीयाः। अस्माभिः स्वकीयं गौरवमयं वाङ्मयमधीत्यैव तदाधारे भविष्यनिर्माणं कर्तव्यं, तदैवात्मोत्कर्षः सम्भाव्यते। स च उत्कर्षः आत्माधिष्ठितो हृदयग्राही वास्तविकोन्नतिकारी भविष्यति। यानि राष्ट्राणि स्वगौरवं न विस्मरन्ति तान्येव सफलतायाश्चरमोत्कर्ष प्राप्नुवन्ति।

Read Also: हिंदी भाषा का महत्व पर निबंध

Sanskrit ka Mahatva in Sanskrit Essay (250 Words)

परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्यवहियते। संस्कृत भाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते।।

अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारः वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेद पद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायां एवं निबद्धाः सन्ति।

एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते। एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम्। एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते। आंग्लभाषायां लिख्यते ‘बुट’ पठ्यते च ‘बट’ लिख्यते पुट पुनः बटवत् ‘पट’ इति न पठ्यते। एवमेव अनेकानि भ्रष्ट्रभाषायाः उदाहरणानि सन्ति। संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते।

संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट अपितु मधुरा दिव्या च। इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति।

ये कथयन्ति यत् कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य। संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति। सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते। संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्:-

भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः

अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः। यतो हि-

कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति”

हम उम्मीद करते हैं आपको यह Essay on Importance of Sanskrit in Sanskrit पसंद आया होगा। इसे आगे शेयर करना ना भूलें। आपको यह कैसा लगा, हमें कमेंट बॉक्स में जरूर बताएं।

Read Also

Rahul Singh Tanwar
Rahul Singh Tanwar
राहुल सिंह तंवर पिछले 7 वर्ष से भी अधिक समय से कंटेंट राइटिंग कर रहे हैं। इनको SEO और ब्लॉगिंग का अच्छा अनुभव है। इन्होने एंटरटेनमेंट, जीवनी, शिक्षा, टुटोरिअल, टेक्नोलॉजी, ऑनलाइन अर्निंग, ट्रेवलिंग, निबंध, करेंट अफेयर्स, सामान्य ज्ञान जैसे विविध विषयों पर कई बेहतरीन लेख लिखे हैं। इनके लेख बेहतरीन गुणवत्ता के लिए जाने जाते हैं।

Related Posts

Comments (5)

Leave a Comment