स्वामी विवेकानंद संस्कृत निबंध

Swami Vivekanand Sanskrit Essay: नमस्कार दोस्तों, यहां पर हमने स्वामी विवेकानंद पर निबंध संस्कृत में शेयर किया है। यह निबन्ध कक्षा 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 और उच्च शिक्षा के विद्यार्थियों के लिए लाभदायक साबित होगा।

Swami Vivekanand Sanskrit Essay

Swami Vivekananda Biography in Sanskrit, Biography of Swami Vivekananda in Sanskrit Language

Read Also

स्वामी विवेकानंद पर संस्कृत निबंध – Swami Vivekanand Sanskrit Essay

5 Lines on Swami Vivekananda in Sanskrit

  1. १९६८ तमे वर्षे विवेकानन्दकेन्द्रस्य कार्यकर्तारः अस्माकं पाठशालाम् आगच्छन् केन्द्राय दानम् अयाचन्।
  2. तदा मया एकं रुप्यकं दातम्।
  3. ते विवेकानन्दस्य वाक्यानां लघुपुस्तकानि अपि अवितरन्।
  4. तानि लघुपुस्तकानि पठित्वा अहं अत्यन्तं प्रसन्नः अभवम्।
  5. कदाचित् इदानीम् अपि विवेकानन्दस्य वाक्यानि अहं न अवगच्छमि किन्तु पठित्वा मोदामि खलु।

Swami Vivekananda Essay in Sanskrit (100 Words)

आधुनिकभारतस्य निर्माणकर्तृषु युगपुरुषस्य विवेकानन्दस्य नाम सर्वोपरि अस्ति। सः न केवलं भारते अपितु सम्पूर्णविश्वे आध्यात्मलोकं विकीर्णयति स्म। तस्य महापुरुषस्य जन्म 1863 तमे वर्षे अभवत्। विश्वनाथदत्तः तस्य पिता आसीत्। बाल्यकाले विवेकानन्दस्य नाम नरेंद्रनाथः आसीत्। बाल्यकालादेव सः अति मेधावी आसीत्। आध्यात्मविषये तस्य महती रुचिः आसीत्।

नरेन्द्रः यदा स्नातकोंSभवत् तदा तस्य पिता परलोकम् अगच्छत्। एकदा एकस्यां सभायां सः रामकृष्णपरमहंसमहोदयस्य स्पर्शमधिगत्य समाधिस्थोSभवत्। तस्यैव गुरोः स्पर्शेन च तस्य समाधिः समाप्तोSभवत्। तस्मात् क्षणादेव नरेन्द्रः तं स्वगुरुम् अमन्यत तपः च आरभत।

1893 तमे वर्षे अमरीकादेशे ‘शिकागो’ नामनगरे विश्वधर्मसम्मेलनमभवत्। तस्मिन् सम्मेलन सः भारतस्य प्रतिनिधित्वम् अकरोत्। तस्मादेव कालात् तस्य कीर्तिः सर्वत्र प्रासरत्। अनेके जनाः तस्य भक्ताः अभवन्। विवेकानन्दः लोकसेवायाः उद्देश्यं ‘रामकृष्णमिशन’ संस्थापयत्। 4 जुलाई 1902 तमे वर्षे अयं दिव्यपुरुषः पंचतत्वं गतः।

Read Also: स्वामी विवेकानन्द का शिकागो में दिया गया भाषण

Sanskrit Essay on Swami Vivekananda (200 words)

विश्वगुरोः भारतस्य महान् प्रतीकं स्वामी विवेकानन्दः। रवीन्द्रनाथ: टैगोर उक्तवान्, ‘‘यदि भवान् भारतं ज्ञातुम् इच्छति तदा स्वामिनं विवेकानन्दं पठतु।

स्वामिविवेकानन्दस्य जन्म १८६३ तमे वत्सरे जनवरीमासस्य द्वादशदिनाङ्के कोलकातानगरे संभूतः। दत्तोपाह्वविश्वनाथस्य भुवनेश्वरीदेव्याः च पुत्ररूपेण प्रादुर्भूतस्य तस्य जन्मनाम नरेन्द्र इति। बाल्यावस्थायामेव सः योगादिशास्त्रेषु तथा धर्मग्रन्थादिषु अभ्यस्तः जातः। नरेन्द्रः विश्वविद्यालये १८८४तमे वत्सरे अध्ययनं समाप्य ब्रह्मसमाजनामकस्य संघटनस्य संपर्के आगतः।

परमात्मनः साक्षात्कारे अत्युत्कटा जिज्ञासा नरेन्द्रं श्रीरामकृष्णपरमहंसस्य समीपे नीतवती। परतत्वस्य विषये रामकृष्णस्य निजानुभवं परिशील्य तं स्वगुरुरिति स्वीकृतवान्। रामकृष्णस्य मार्गदर्शने नरेन्द्रः अध्यात्मविद्याध्ययनं योगध्यानाभ्यसनं च कृतवान्। १८८५ तमे वत्सरे रामकृष्णस्य देहात्यागानन्तरं नरेन्द्रः रामकृष्णमठं संस्थापितवान्। सः पारिव्राजकव्रतं स्वीकृत्य स्वामी विवेकानन्दः इति प्रख्यातः।

तत्पश्चात् परिव्राजकः विवेकानन्दः भारतदेशस्य बहुषु प्रदेशेषु संचरन् समाजे विविधस्तरस्थैः जनैः सह मिलित्वा प्रत्यक्षानुभवं प्राप्तवान्। १८९३ तमे वत्सरे अमेरिकादेशं प्राप्य शिकागोनगरसंभूते सर्वधर्मसंमेलने “हे मम सहोदराः तथा सहोदर्यः” इति सभिकान् संबोधयन् भाषणं दत्तवान्। ततः तस्य कीर्तिः न केवलम् अमेरिकादेशे अपि च सर्वे लोके जि जाता।

तदनन्तरं विवेकानन्दः इङ्ग्लण्डदेशेऽपि परिभ्रम्य जनेभ्यः नैकानि भाषणानि श्रावितवान्। अमेरिकायां तथा युरोपदेशेषु अनेके जनाः विवेकानन्दस्य वर्चसा पारमार्थिकविचारेण च आकर्षिताः। तेषु जनेषु निकोला तेस्ला, मेरी लुइस, भगिनी निवेदिता, डेट्रायिट्नगरवासिनी भगिनी क्रिस्तिना प्रसिद्धाः। विवेकानन्दः भारतमागत्य दीनजनपराणि बहूनि कार्याणि कृतवान्। तेन अनेकानि पुस्तकानि अपि लिखितानि।

१८९७ तमे वत्सरे सः रामकृष्णसमाजसेवासंस्थां स्थापितवान्। १९०० तमे वत्सरे विवेकानन्दः पुनः युरोपप्रदेशस्य तथा अमेरिकादेशस्य प्रवासं कृत्वा सनातनधर्मस्य महतीं प्रकाशितवान्। अविरतकार्यात् परिश्रान्तस्य स्वामिनः विवेकानन्दस्य देहारोग्यं अवगतिरापन्नम्। १९०२ तमवत्सरस्य जुलैमासस्य चतुर्थदिने सः ध्यानसक्त एव दिवंगतः।

स्वामिनः विवेकानन्दस्य जीवनकथा भाषणमालिका ग्रन्थाः च अद्यापि जगति जनेभ्यः बहूपयोगिनः। तेन कठोपनिषदः उद्धृतम् अधस्तनवाक्यं सर्वेभ्यः अतीवस्फूर्तिदायकम्।

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।

Read Also: स्वामी विवेकानंद के प्रेरणादायक सुविचार

Swami Vivekanand Sanskrit Essay (250 Words)

सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ट्यधिकशततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्।

तस्य पिता श्री विश्वनाथदत्तमहोदय:। पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म।

ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’इति। ‘आम्।

त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्। सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्दः इति अभवत्। अयं च नरेन्द्रः भारतभ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादशत (१८९३) तमे वर्षे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसभायां भारतस्य गौरवं प्रतिष्ठापितवान्।

तत्र सभास्थले विविध धर्मग्रन्थाः एकस्य उपरि एकः इति क्रमेण स्थापिताः आसन्। संयोगवशात् श्रीमद्भगवद्गीता सर्वेषां पुस्तकानाम् अधः आसीत्। एकः अमेरिकावासी उपहासपूर्वकम् अवदत् – ‘स्वामिन्। भवतां गीता सर्वेषां धर्मग्रन्थानाम् अधः वर्तते’ इति। प्रत्युत्पन्नमतिः स्वामी विवेकानन्दः हसन्नेव प्रत्यवदत् – ‘आम् । सत्यम्। आधारशिला तु अधः एव भवति।

सा यदि बहिः स्वीक्रियेत तर्हि समग्रम् अधः पतिष्यति’ इति। विदेशेषु वेदान्तधर्मस्य प्रचारं कृत्वा भारतं प्रत्यागतः सः देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा, स्वास्थ्यरक्षा, स्त्रीशिक्षा, आधुनिकप्रौद्योगिकी प्रभृतिषु क्षेत्रेषु असाधारणं कार्यं कर्तुं ‘रामकृष्णमिशन्’ इति संस्थां संस्थाप्य जनेषु शक्तिजागरणं कृतवान्। स्वामिविवेकानन्दस्य अयं सन्देशः अद्यापि भारतीयान् प्रेरयति – “उत्तिष्ठत, जाग्रत, प्राप्य वरान्निबोधत।”

Read Also

हम उम्मीद करते हैं कि हमारे द्वारा शेयर किया गया यह “स्वामी विवेकानंद पर संस्कृत निबंध (Swami Vivekanand Sanskrit Essay)” आपको पसंद आया होगा, इसे आगे शेयर जरूर करें। आपको यह कैसा लगा, हमें कमेंट बॉक्स में जरूर बताएं।

Read Also

इनका नाम राहुल सिंह तंवर है, इन्होंने स्नातक (रसायन, भौतिक, गणित) की पढ़ाई की है और आगे की भी जारी है। इनकी रूचि नई चीजों के बारे में लिखना और उन्हें आप तक पहुँचाने में अधिक है। इनको 3 वर्ष से भी अधिक SEO का अनुभव होने के साथ ही 3.5 वर्ष का कंटेंट राइटिंग का अनुभव है। इनके द्वारा लिखा गया कंटेंट आपको कैसा लगा, कमेंट बॉक्स में जरूर बताएं। आप इनसे नीचे दिए सोशल मीडिया हैंडल पर जुड़ सकते हैं।

LEAVE A REPLY

Please enter your comment!
Please enter your name here