Sadachar Essay in Sanskrit: नमस्कार दोस्तों, हमने यहां पर सदाचार पर संस्कृत निबंध शेयर किये है। यह संस्कृत निबंध (Sanskrit Nibandh) सभी कक्षाओं के विद्यार्थियों के लिए मददगार साबित होंगे ऐसी हम उम्मीद करते हैं।

उम्मीद करते हैं आपको यह Sanskrit Essay पसंद आयेंगे, इन्हें आगे शेयर जरूर करें।
Read Also: संस्कृत में अन्य महत्वपूर्ण निबंध
सदाचार पर संस्कृत निबंध – Sadachar Essay in Sanskrit
सदाचारः पर संस्कृत निबंध
सताम् आचारः सदाचारः कथ्यते। सज्जनाः यानि कर्माणि कुर्वन्ति तानी एव अस्माभिः कर्तव्यानि। ऋषयश्च वदन्ति यानि अनिन्द्यानि कर्माणि तानि सेवितव्यानि नेतराणि। गुरुजनानां सेवा, सरलता सत्यभाषणम्, इन्द्रियनिग्रहः अद्रोहः, अपैशून्यम् आदि गुणानां गणना सदाचारे भवति। सदाचारवान् जनः दीर्घसूत्री न भवति। स हि अतन्द्रितः स्वकर्मानुष्ठानम् समयेन करोति। सदा मधुरं भाषणं करोति। स हि न कस्मैचिदपि द्रुह्यते। पुरा भारते सर्वेजनाः सदाचारवन्तः आसन्। इदानीं रामचन्द्रस्य मर्यादापुरुषोत्तमस्य जीवनं सदाचारस्य उत्कृष्टम् उदाहरणम् अस्ति। अस्माभिः तस्यैव जीवनम् अनुकरणीयम्।
यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः।
चित्ते वाचि क्रियायांच साधुनामेक्रूपता।।
हिन्दी अनुवाद
सत्य आचार को सदाचार कहा जाता है। सज्जन लोग जिस प्रकार के कार्य करते है उसी तरह हमलोगों को भी करना। ऋषियों के द्वारा कहा जाता है कि निन्दनीय कार्य नहीं करना चाहिए। गुरुओं की सेवा, सत्य बोलना, इन्द्रियों को वश में रखना, द्रोही नहीं होना आदि गुणों की गणना सदाचार में किया जाता है। सदाचारवान व्यक्ति दीर्घसूत्री नहीं होता है। वह अपना सभी कार्य समय पर करता है। वह हमेशा मधुर वोलता है। वह किसी को परेशान नहीं करता है। प्राचीन भारत में सभी लोग सदाचारवान थे। इस समय मर्यादापुरुषोत्तम राम का जीवन सदाचार का सबसे अच्छा उदाहरण है। हम लोगों को भी उनके जीवन का अनुकरण करना चाहिए।
अच्छे लोगों के मन में जो बात होती है, वे वही वो बोलते हैं और ऐसे लोग जो बोलते हैं,
वही करते हैं। सज्जन पुरुषों के मन, वचन और कर्म में एकरूपता होती है।
Read Also: पेड़ पर संस्कृत निबंध
सदाचार संस्कृत निबंध
सज्जनाः यानि-यानि सत्कार्याणि कुर्वन्ति, स सदाचारः उच्यते। सदाचारी नरः कीर्ति भूतिं च लभते। प्रातः काले उत्थाय मातापितरौ, वृद्धान्, गुरून् च प्रणमेत्। तेषां आज्ञाम् पालयेत्, तान् सेवेत च। सदाचारिणः सर्वेषां प्राणिनामुपकारं करोति। सदाचारेण मानवजीवनस्य सर्वविधा उन्नतिः भवति। अतएव सदाचारः उन्नत्याः द्वारमस्ति। सदाचारेणैव जनाः हितं मधुरं च वदन्ति। सदाचार-युक्तो जनः सर्वत्र आदरं लभते। सदाचारेण हीनो जनः सर्वत्र पशुतुल्यः भवति। सदाचारपालनेन एव श्रीरामः मर्यादा पुरुषोत्तमोSभवत्। सदाचारेण एव महर्षिः दधीचिः गान्धि महोदयश्च यशः शरीरेण अद्यापि जीवितः। सदाचारिणः सर्वत्र आदरं लभन्ते। सदाचारस्य महिमानं वर्णयितुं कोSपि न शक्नोति। अतोSस्माभिः सर्वतोभावेन सदाचारः पालनीयः।
Essay on Sadachar in Sanskrit
सज्जनानां, सतां वा आचरणम् ‘सदाचारः’ कथ्यते। अस्माकं जीवने सदाचारस्य महत्त्वं विशेषम् अस्ति। ‘आचार: प्रथमो धर्मः’ इत्यपि उच्यते। सदाचारः एव श्रेष्ठ, धर्मः। धर्मस्याचरणमेव सदाचारणमस्ति। अस्माकं देशे सदाचारस्य प्रतिष्ठा महती वर्तते। सदाचारी जनः सर्वत्र पूज्यते। तं सर्वे जनाः प्रशंसन्ति च। महात्मा गाँधी, स्वामी दयानन्द प्रभृतयः महापुरुषाः सदाचारेण एव अमराः जाता:। सीतासावित्र्या-दय: नार्यः अपि सदाचारेण सुविख्याताः।
बाल्यादेव माता पुत्रं सदाचारस्य महत्त्वं कथयति। तेषां कृते सदाचार शिक्षायाः महत्त्वं आवश्यकमस्ति। यत: बाल्ये ये संस्काराः ते गृहे विद्यालये वा लभन्ते, तेषा महत्त्वं ते पश्चात् अनुभवन्ति जीवने। सदाचारिणः बालकाः सफलतां प्राप्नुवन्ति। बाला: परस्परं स्नेहभावेन व्यवहरन्ति, अपशब्दान् न वदन्ति, सर्वान सत्कुर्वन्ति एतानि सर्वाणि सदाचारस्य लक्षणानि एव। एतद्विपरीतं ये व्यवहरन्ति, ज्येष्ठानाम् आज्ञां न पालयन्ति ते जगति अपमानं, निन्दां च लभन्ते। अत: सर्वदा ज्येष्ठानां, वृद्धानां च आदर: करणीयः, ज्येष्ठाः अपि बालैः छात्रै: सह स्नेहेन व्यवहारं कुर्वन्तु। बालकानां जीवननिर्माणाय सदाचारस्य शिक्षा अनिवार्या भवेत्।
सदाचारसंपन्नः मानवः सदा सुखी भवति, अन्येभ्यः अपि सुखं ददाति। जीवनस्य सर्वेषु क्षेत्रेषु सः यशः प्राप्तुं समर्थः भवति। सदाचार पालनेन एव सः भवसागरं तरितुं समर्थो भवति। दुराचरणेन मानवः न सुख लभते न च साफल्यम्। सर्वे च तं निन्दन्ति एव।
सदाचारेण मानवः स्वोन्नति, देशस्य विकासं च करोति। अतः सुखसाधक: यशदायकः आचारः सर्वेः पालनीयः।
हम उम्मीद करते हैं आपको यह “सदाचार पर संस्कृत भाषा में निबंध (Sadachar Essay in Sanskrit)” पसंद आया होगा। इसे आगे शेयर करना ना भूलें। आपको यह कैसा लगा, हमें कमेंट बॉक्स में जरूर बताएं।
Read Also
- महात्मा गांधी संस्कृत निबंध
- मेरे विद्यालय पर संस्कृत निबंध
- अनुशासन पर संस्कृत निबंध
- महाकवि कालिदास पर संस्कृत में निबंध