महात्मा गांधी संस्कृत निबंध

Mahatma Gandhi Essay in Sanskrit: नमस्कार दोस्तों, हमने यहां पर महात्मा गांधी जी पर निबंध संस्कृत में शेयर किये है। यह संस्कृत निबंध सभी कक्षाओं के विद्यार्थियों के लिए मददगार साबित होंगे ऐसी हम उम्मीद करते हैं। हमने यहां पर 5 से भी अधिक संस्कृत निबंध (Sanskrit Nibandh) शेयर किये है।

Mahatma Gandhi Essay in Sanskrit

उम्मीद करते हैं आपको यह Sanskrit Essay पसंद आयेंगे, इन्हें आगे शेयर जरूर करें।

Read Also: संस्‍कृत निबंध संग्रह

महात्मा गांधी संस्कृत निबंध – Mahatma Gandhi Essay in Sanskrit

Essay on Mahatma Gandhi in Sanskrit – 1

अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्ति। यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते। यशः शरीरेण ते सदा जीवन्ति। महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्। सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्। मनसि वचसि कर्मणि च तस्य एकता आसीत्। अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत। तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा। सः महापुरुषः अपरः बुद्धः आसीत्। सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्।

हिन्दी अनुवाद

हमलोगों का प्रियनेता राष्ट्रपिता महात्मा गाँधी है। वह मर कर भी जीवित है। यशस्वी व्यक्ति भौतिक शरीर से मरते हैं। यश शरीर के रूप में वह सदा जीवित रहते हैं। महात्मा गाँधी गुर्जर भारतीय थे। सत्यबोलना, सत्याचरण करना उनके जीवन का आदर्श था। उनके मन, वचन और कर्म में समानता था। अफ्रीका देश में ख्याति प्राप्त कर स्वदेश लौटकर स्वतंत्रता आंदोलन में सत्याग्रह किए और देश उनको पिता मान लिया। उनके प्रयास से ही हमलोगों को स्वतंत्रता मिला। वह महापुरुष दूसरे बुद्ध का अवतार था। सत्य अहिंसा में उनको दृढ़ विशवास था।

Read Also

Short essay on Mahatma Gandhi in Sanskrit – 2

महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्। भारताय एव च प्राणान अत्यजत्। अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति। अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर – मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्। तस्य पितुः नाम कर्मचंद गांधी मातुश्च पुतलीबाई आसीत्। तस्य पत्नी कस्तूरबा धार्मिका पतिव्रतानारी आसीत्।

बाल्यकालादेव एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्याणां प्रियः आसीत्। उच्चशिक्षायैः सः आंग्लदेशमगच्छत। स विदेशगमनसमये मातुः आज्ञया सः संकल्पितवान् यत् अहम् मद्यं न सेविष्ये, मांसस्पर्शमपि न करिष्यामि एवं सदा ब्रह्मचर्यं आचरिष्यामि। स्वदेशमागत्य सः देशस्य सेवायाम् संलग्नः अभवत्। अस्य ईश्वरे दृढः विश्वासः आसीत्। सः आंग्लशासकानां विरोधे सत्याग्रहांदोलनम् प्रावर्तयत। तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयाः, सर्वः शक्तिः, सर्वः धनम् च देशाय एवासीत्।

महात्मा गान्धिः निबंध: – 3

महात्मा गाँधी वस्तुत: समस्तस्य भारतवर्षस्य आत्मा भारतीयानां च हृदयसम्राट आसीत्। तस्य जन्म नवष’ट्युत्तराष्टादशततमे (१८६९) अब्दे काठियावाड़प्रान्ते पोरबन्दरनगरे अभवत्।

पोरबन्दरस्थे उच्चविद्यालये अधीयान: स मैट्रिक परीक्षामुत्तीर्य राजकोटनगरे उच्चशिक्षा ग्रहीतु महाविद्यालये प्रवेशं लब्धवान्। एतदनन्तरं च स ‘बैरिस्ट्री’ परीक्षामुत्तरितुमाङ्गलदेश (इंग्लंड) गतः। तत्र गच्छतं तं तस्य माता मद्यमांससेवनं परस्त्रीगमनं च निषेधितवती। सचाऽपि तस्याः अज्ञानुसार व्यवहतु प्रतिज्ञातवान्।

अध्ययनं समाप्य र भातं प्रत्य गत्य वाक्कोलकार्य (वकालत) कतु मारभत। किञ्चित्कालानन्तरं स कस्यचिद् अभियोगस्य विषये दक्षिण-अफ्रीकामगच्छत्। तत्र हि गौराङ्गा भारतीयान् अनेकधा पीडयन्त: ग्रासन्। तेषाम मानवीयान् अत्याचारान् दृष्टवा महात्मा गाँधी तत्रत्यान् भारतीयाने एकत्रीकृत्य अत्याचाराणां विरोधे सत्याग्रहं कृतवान् बहुश: कष्टानि सहित्वा सोऽन्ते विजयप्रयत्ने सफल प्रयासोऽभवत्।

भारतमागत्य स ‘काँग्रेस’ इत्यास्याया: देशस्य प्रधानराजनीतिकसं स्थायाः नेतृत्वं स्वीकृतवान्। स हि देशे विभिन्नसम्प्रदायेषु ऐक्यं यथावत् संरक्षितु अनेकशः उपवासान अकरोत्। द्वचत्वारिंशदुत्तरे शोनविंशतिशततमे (१९४२} अब्दे स गलीयानां विरोधे ‘भारतं मुञ्च’ इत्येतां घोषणां कृतवान् ।

अन्ततो गत्वा सप्तचत्वारिंशदुत्तरे कोनविंशतिशततमे (१९४७) अब्दे महात्मनः। तपस्या सफलीभूतः भारतश्च स्वतन्त्रो जातः। मुहम्मदीयानां विपये महात्मा गन्धिन: विचारैः केचन भारतीया: सन्तुष्टाः नाऽऽसन्। अतः अत्रत्वारिंश इत्तरेको विशतिशततमे (१९४८) अब्दे जनवरीमासे। ‘गोडसे इन्युपनाम प्रारी नाथूरामः भारतीयानां हृदयस व्राजं त महात्मानं निधनं प्रापितवान्। राष्ट्रपितुः निधनेन देणे समन्तात् हाहाकारोऽभवत्।

यद्यपि इदानीं महार मा गांधी भोति कुरीरेण अस्माकं मध्ये नाऽस्ति तथापि तस्य नित्यः वरिन्तन: प्रात्मा मदैव अस्माकं मध्ये वर्तते, भविष्ये चापि वतिष्यते, सदैव च स्माकं हृदये नवजीवनं, कर्तव्यपरायणतां, सद्भावनां, स्वात्मनिर्भरतां च जागरयति, अग्नेऽपि स जागरयिष्यति।

Information About Mahatma Gandhi in Sanskrit Essay – 4

गुजरातराज्यस्यपोरबन्दरनामके नगरे जन्म प्राप्तवान्। तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा इति शब्देन सम्बोधितवान। ततः पश्चात सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति। भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत्।

अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते। दक्षिण आफ्रिका देशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान्। अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थानेपोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत्। माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत्।

मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत्। मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन्। विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत्। मोहनदास। गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान्।

विनयशील : लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत्। गान्धिमहोदयः सत्यम्अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत्। सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत्।

महात्मा गांधी जीवन परिचय संस्कृत में निबंध – 5

महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान्। तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान्। तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति।

भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत्। अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते। दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान्। अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत्।

माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत्। मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत्। मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन्। विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत्।

मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान्। विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत्। गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत्। स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत्।

Read Also

मम प्रिय नेता संस्कृत निबंध – 6

महात्मा गान्धिः भारतस्य राष्ट्रपिता कथ्यते। विश्ववन्द्यस्य प्रातःस्मरणीयस्यास्य महात्मनो जन्म काठियावाड़प्रदेश पोरबन्दरनामके स्थले एकोनसप्तत्यधिकाष्टादशशततमे खिस्तीयवर्षे अभवत्। अस्य पूर्ण नाम मोहनदासकर्मचन्दगान्धिः इत्यस्ति।

आबाल्यादेव अयं सत्यवादी आसीत्। अस्य विवाहः कस्तूरबानाम्न्या धार्मिकमहिलया बभूव। कुशाग्रबुद्धिरयं विधिशास्त्रस्योच्चशिक्षा प्राप्तुं विदेशं गतः, परन्तु तत्र तेन संयमपूर्वक मांसमदिरापरिहारः कृतः। एवम् आत्मशुद्धिपूर्वक प्रावीण्यं लब्ध्वा स्वदेशं प्रतिनिवृत्य पुनः वृत्त्यर्थम् अफ्रीकां गतः। तत्रत्यानां भारतीयानाम् आंग्लशासकैः कृतां दुर्दशामवलोक्य तस्य हृदयं द्रवीभूतं, तदर्थं च तेन न्याययुद्धं प्रारब्धं येन तत्रत्यानां भारतीयानां दशा किञ्चित् परिष्कृता।

तदनु भारतं प्रतिनिवृत्य. आंग्लशासने भारतीयजनानां कष्टानि दृष्ट्वा तेन सर्वं जीवनं भारतीयस्वातन्त्र्ययुद्धाय आहुतम्। तेन हरिजनोद्धारेण अन्यैश्चोपायैः भारतीयजनेषु ऐक्यभावः सञ्चारितः यतः संघट्टनेन ऐक्येन च विना आंग्लशासनात् मुक्तिः असंभवा आसीत्। तेन सम्यक् ज्ञातं यत् महत्या आंग्लशासनशक्त्या अहिंसयैव योद्धुं शक्यते न हिसया।

अतएव तेन अहिंसकैः असहयोगान्दोलनः आंग्लीया भारतशासनं त्यक्तुं विवशीकृताः। सः स्वयं सत्याचरणम् अकरोत् ।तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः। भारतीयतां भारतीयगौरवं च जनमानसे प्रतिबोधयितुं तेन संस्कृतज्ञानस्य महत्त्वं ख्यापित हिन्दीभाषायाः प्रयोगश्च प्रसारितः।

सर्वधर्मसमभावः तस्यान्दोलनस्य मूलमासीत्। स्वातन्त्र्ययुद्धे सः अनेकवारं कारागारे निगृहीतः। सर्वं भारतीयं तस्य प्रियम् आसीत्, दरिद्राणां दुःखिनां विपन्नानां च कष्टेन तस्य हृदयं द्रवीभूतम्, तेषामुत्थानाय तेन महान् प्रयत्नो विहितः। ग्रामोन्नतिरेव भारतस्य उन्नतिरिति तेन सत्यं प्रतिपादितम्।

अष्टचत्वारिंशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे जनवरीमासस्य त्रिशे दिवसे कस्यापि अविमृश्यकारिणः नाथूरामगोड्सेनाम्नो जनस्य गोलीप्रहारेण दिवंगतोऽयं महात्मा। तस्य त्यागेन नीत्या च भारत स्वतन्त्रमभूत्। अद्यापि वयं तस्य नीतिमंनुसरन्त एव यदि भारतं निर्मातुं प्रयतामहे तदैव साफल्यं प्राप्स्यामः।

हम उम्मीद करते हैं आपको यह “महात्मा गांधी संस्कृत निबंध (Mahatma Gandhi Essay in Sanskrit)” पसंद आया होगा। इसे आगे शेयर करना ना भूलें। आपको यह कैसा लगा, हमें कमेंट बॉक्स में जरूर बताएं।

Read Also

यह पोस्ट आपके लिए कितनी उपयोगी रही?

कृपया स्टार पर क्लिक करके रेटिंग दें

Average rating 0 / 5. Vote count: 0

अब तक कोई वोट नहीं! इस पोस्ट को रेट करने वाले आप पहले व्यक्ति बनें!

हमें खेद है कि यह पोस्ट आपके लिए उपयोगी नहीं थी!

हमें इस पोस्ट में सुधार करने दें!

कृपया हमें बताएं कि हम इस पोस्ट को कैसे सुधार सकते हैं?

LEAVE A REPLY

Please enter your comment!
Please enter your name here