गणतन्त्र दिवस पर संस्कृत निबंध

Essay on Republic Day in Sanskrit: नमस्कार दोस्तों, यहां पर हमने गणतंत्र दिवस पर निबंध संस्कृत में शेयर किया है। यह निबन्ध कक्षा 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12 और उच्च शिक्षा के विद्यार्थियों के लिए मददगार साबित होगा।

essay on independence day in hindi

Read Also: संस्‍कृत में अन्य महत्वपूर्ण निबंध

गणतन्त्र दिवस पर संस्कृत निबंध – Essay on Republic Day in Sanskrit

गणतन्त्रदिनम् निबन्ध (Sanskrit Essay on Republic Day 100 Words)

अस्माकं देशः १९४७ तमस्य वर्षस्य ‘अगस्त’-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रम् अभवत् । परन्तु तदानीं अस्य किमपि स्वकीयं संविधानं न आसीत्। अतः डॉ राजेंद्रप्रसाद महोदयानाम् अध्यक्षतायां संविधाननिर्माणाय एकस्याः परिषदः स्थापना अभवत। यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः। अतः अयं दिवसः बहुमहत्वपूर्णः विद्यते।

अस्मिन् दिवस सर्वासु शिक्षण-संस्थासु ध्वजोत्तोलनं भवति, विविधाः कार्यक्रमाः आयोज्यन्ते, राष्ट्रगानं गीयते, मिष्टान्नादीनां वितरणं च क्रियते। सर्वेषु अद्भुतः आनन्दः, उत्साहः, देशभक्तिश्च दृश्यते। अयं उत्सवः दिल्लीनगरे महता उल्लासेन हर्षेण च सह मान्यते। अस्मिन दिवसे राष्ट्रपतिः राष्ट्रस्य नाम्ना संदेशं प्रसारयति। अस्य उत्सवस्य सर्वेSपि कार्यक्रमाः रेडियो-दूरदर्शन-प्रभृतियन्त्राणां मध्यमेन समग्रेSपि देशे श्रव्यन्ते दर्श्यन्ते च।

Read Also: स्वामी विवेकानंद संस्कृत निबंध

गणतंत्र दिवस पर भाषण संस्कृत में (Essay on Republic Day in Sanskrit 250 Words)

खिस्तीयवर्षानुसारं जनवरीमासस्य षड्विंशे दिवसे अस्माकं देशे गणतन्त्रदिवसः ससमारोह सम्भाव्यते। अयं हि दिवसो भारतेतिहासेऽतीवमहत्त्वपूर्णः। पञ्चाशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे तस्मिन्। दिवसेऽनेकशताब्दीपरतन्त्र्यानन्तर स्वतन्त्र भारतराष्ट्र गणतन्त्रमुद्घोषितं तस्य च स्वकीय संविधान स्वकीया च शासनप्रणाली तद्दिनात् प्रवृत्ते।

एतदनन्तरमेव भारतेन पूर्णस्वातन्त्र्यं लब्धमिति कथयितुं शक्यते। तस्यैव महत्त्वपूर्ण दिवसस्य स्मृतौ प्रतिवर्षमेतद्दिनं राष्ट्रियपर्वरूपेण सम्मान्यते। अस्मिन् दिने देशस्य प्रमुखेषु नगरेषु राष्ट्रियध्वजारोहणं भवति, राजकीयभवनानि च दीपमालाभिर्दीप्यन्ते, मेलकानि आयोज्यन्ते।

अस्मिन् दिवसे विशिष्टः समारोहो राजधान्यां दिल्ल्यां समायोज्यते। प्रातरेव राष्ट्रपतिभवननिकटस्थे विजयचतुष्पथे विशिष्टे मञ्चे राष्ट्रपतिः भारतीयसेनायाः त्रिभ्य एव जलस्थलवायुसेनाङ्गेभ्योऽभिवादनं स्वीकरोति। ततोऽपि पूर्व राष्ट्रपतिः विशिष्टेभ्यः सैनिकेभ्यो विशेषोत्साहशौर्यकौशलप्रदर्शनार्थं पदकानि वितरति। सेनाङ्गः राष्ट्रपतेरभिवादनावसरे तेषां सेनाङ्गानां स्वोपकरणैः सार्क विजयचतुष्पथादारभ्य राजधान्याः प्रमुखराजमार्गेषु रक्तदुर्ग पर्यन्तं शोभायात्रा भवति।

इमां शोभायात्रां लक्ष शो जना मार्गमुभयतो वा वृक्षेषु वा भवनच्छदिषु वा सौत्सुक्यमव. लोकयन्ति। इमामेव द्रष्टुं भारतस्था विविधदेशानां राजदूता अन्ये च विशिष्टा वैदेशिकातिथयोऽपि राजपथं समवयन्ति। सुमधुरसैनिकवाद्यसंगीतसंवलिता इयं शोभायात्रा सर्वेषां चेतांसि आन्दोलयति। अस्मिन्नेवावसरे आसेतुहिमाचलम् आद्वारिकाकामरूपं च निखिलभारतदेशस्य सांस्कृतिकी औद्योगिकी चापि शोभायात्रा भवति।

वैविध्यमयं भारतीय लोकजीवनं तत्रैकत्रैव वयं द्रष्टुं पारयामः। प्रतिवर्ष मेतानि शोभायात्रादृश्यानि परिवततान्यत एव मनोहरतराणि नेत्रयोरुत्सवं जनयन्ति। अत एव महति शीते ऽपि आप्रत्यूषादेव जनाः स्वस्थानं गृह्णन्ति। सर्वं तत्र सुन्दरं सर्व शोभाढ्य भारतं नृत्यतीव पुरतः। प्राचीन वा नूतनं वा, निकटस्थं दा दूरस्थं वा सर्व तत्र साक्षाद् भवति भारतगौरवम्।

अन्ते चाकाशे विमानैस्त्रिवण भारतीयध्वजो विशिष्टधुमोद्गमैनिर्मीयते यद्धि दृष्ट्वा जनाश्चकितचकिता इव भवन्ति। रात्रौ राजकीयभवानि दीपमालाभिः विद्योतन्ते क्वचिच्च ज्वलनक्रीडनकप्रदर्शनमपि भवति।

अस्मिन् दिवसे राष्ट्रपतिः गतवर्षस्य विशिष्टविद्वद्भ्यः पुरस्कारान् सम्मानान् वोद्घोपयति। अयं दिवसो ऽस्मान भवन भारतीयान् भेदभावान् विस्मृत्य एकभावेन राष्ट्ररक्षार्थ राष्ट्रसेवार्थं च प्रेरयति। अक्षुण्ण चिरं तिष्ठतु भारतीय गणतन्त्रम्।

जनगणहृदयानां नित्यमाह्लादकारी
सकलबुधविकासो दु:खिपीडापहर्ता।
प्रतिदिनमपि नानायोजनाभिः समृद्धो
भवतु भुवि यशस्यो देश एष स्वतन्त्रः।।

Read Also: दीवाली पर संस्कृत निबंध

गणतंत्र दिवस पर संस्कृत में निबंध (Essay on Republic Day in Sanskrit Language 600 Words)

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत्। अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म। यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः। तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति।

प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति। यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति। प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति। भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति। जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत्।

तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति। प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते। विदेशीयाः अतिथिरुपेण आगच्छन्ति। मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति। देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति। ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति।

राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति। भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत्। देशे तथा विदेशेषु च भारतस्य सामाजिक-आर्थिक-सांस्कृतिक-वैभवस्य प्रदर्शनं तथा शान्ति- सुव्यवस्थास्थापनं विदेशैः सह उत्तमसम्बन्धस्थापनम् इत्यादीनि संविधानस्य उद्देश्यानि। भारतीय संविधानम् लिखितं संविधानम् अस्ति। अत्र ३९५ विधयः, अष्ट-अनुसूच्यः सन्ति।

संविधान- रचनासमितेः अध्यक्षः भारतदेशस्य राष्ट्रपतिः श्री बाबूराजेन्द्रप्रसादः आसीत्। संविधानसङ्ककलनसमितेः अध्यक्षः डा बी आर् अम्बेड्करः आसीत्। अतः अम्बेडकरमहोदयं भारतीयसंविधानशिल्पी इति कथयन्ति। संविधाने मुख्यतः राष्ट्रपतिः उपराष्ट्रपतिः लोकसभा राज्यसभा इत्यादीनां व्याख्या, चयनं, चालनं इत्यादि नियमाः निरुपिताः सन्ति। भारतदेशः अनेकराज्यानां गणानां समूहात्मकः अस्ति।

राष्ट्रे लोकसभा राज्यसभा च इति उभयसदने स्तः। राज्येषु विधानसभा विधानपरिषद् इति च स्तः। लोकसभायां तथा विधानसभायां जनैः निर्वाचिताः जनप्रतिनिधयः कार्यं चालयन्ति। राज्यसभायां तथा विधानपरिषदि जनप्रतिनिधिभिः निर्वाचिताः सदस्याः कार्यं सञ्चालयन्ति। लोकसभायाम् ५४४ प्रतिनिधयः जन संख्याधारेण निर्वाचिताः भवन्ति।

Read Also: सदाचार पर संस्कृत निबंध

राष्ट्रियसर्वकारस्य केन्द्रसर्वकारः इति नाम अस्ति। राज्येषु राज्यसर्वकाराः कार्यं कुर्वन्ति। प्रायशः पञ्चवर्षेषु एकवारं निर्वाचनं भविष्यति। १८ वर्षवयस्काः स्वेष्टं प्रतिनिधिं मतदानेन प्रशासकं कर्तुं प्रभवन्ति। एवं भारतीयप्रजा एव राष्ट्रपतिरपि भवति। संविधाने भारतीयप्रजानां विविधकर्तव्यानि तथा अधिकाराः च घोषिताः सन्ति। कर्तव्येषु-

  • राष्ट्ररक्षणम्
  • शान्तिसुव्यस्थारक्षणम्
  • अखण्डतायाः एकतायाः तथा सहोदरतायाश्च रक्षणम्

उदात्तादर्शपालनं भारतीयसंपदः संरक्षणं संस्कृतिरक्षणम्
इत्यादीनि प्रमुखाणि। सर्वजनानामपि अनेकविधाधिकाराः दत्ताः सन्ति।

  • मतदानाधिकारः
  • देशे यत्र कुत्रापि वासाधिकारः
  • न्यायस्वीकाराधिकारः
  • धार्मिकस्वतन्त्रता
  • विद्याध्ययनस्वतन्त्रता
  • सास्कृतिकस्वातन्त्र्यम्
  • शोषणायाः विरुद्धान्दोलनस्वातन्त्रयम्
  • समानताधिकारः
  • वाक् स्वातन्त्रयम्

इत्यादि प्रमुखविषयाः सन्ति। भारतदेशे न्यायदानकार्याय अधीनन्यायालयाः राज्ये उच्चन्यायालयाः, राष्टियसर्वोच्चन्यायालयः च सन्ति। भारते २८ राज्यानि सप्तकेन्द्रशासितप्रदेशाः च सन्ति। राज्यराजधानीषु उच्चन्यायालयाः सन्ति। देहलीनगरे राष्टस्य राजधान्यां सर्वोच्चन्यायालयः अस्ति। भारतदेशः जात्यतीतः सर्वधर्मसमभावयुक्तः च अस्ति। हिन्दूधर्मीयाः जैनाः बौध्दाः महम्मदीयाः सिखधर्मीयाः क्रैस्ताः, फारसीकाः जनाः अत्र निवसन्ति।

‘अनेकतायाम् एकता’ एव भारतस्य विशेषः अस्ति। सर्वे जनाः स्वधर्मानुसारं जीवनं कुर्वन्ति पर्वाणि अचरन्ति। पर्वसु परस्परं शुभाशयं यच्छन्ति। शतशः पर्व- विशेषाः भारतदेशे आचर्यन्ते। भारतदेशे सहश्रशः भाषाः सन्ति। जनाः परस्परं वदन्ति। किन्तु संविधानरीत्या अष्टादशभाषाणां राष्ट्रभाषा स्थानं दत्तमास्ति। हिन्दी भाषा अधिकजनानां भाषाऽस्ति। राष्ट्रे राजभाषा इवास्ति।

भाषानुसारमेव भारते राज्यानां विभागः कृतः अस्ति। सर्वत्र जनेषु वयं भारतीयाः इति भावना जागरिता अस्ति। भारतदेशे राष्ट्रियकार्यक्रमरुपेण पञ्चवर्षिकयोजनाः निर्धारिताः भवन्ति। कृषि-उद्योग-विद्युत्-वाणिज्य- आरोग्य-साक्षरता इत्यादिविषयेषु सततम् कार्ययोजना रचिता भवति। सर्वजनहिताय नियमाः योजनाः च रुपिताः भवन्ति।

भारते समग्रतां भावैक्यतां स्थापयितुं महानप्रयासः कृतः अस्ति। तेषां संरक्षणं सर्वभारतीयानाम् आद्यं कर्तव्यमिति संविधानेऽपि निर्दिष्टम् अस्ति। केन्द्रसर्वकारस्य राष्ट्रपतिः एव प्रमुखः। लोकसभायां बहुमताधारेण पक्षाधारेण च प्रशासनं भवति प्रधानमन्त्री राष्ट्रशासकाङ्गपक्षस्य प्रमुखः भवति। राज्येषु राज्यपालः प्रमुखः। मुख्यमन्त्री बहुमताधारेण पक्षाधारेण च शासकाङ्गस्य नायकः भवति।

पञ्चवर्षपर्यन्तं निर्वाचितस्य पक्षस्य अधिकारावधिः अस्ति। प्रजाराज्योत्सवदिने राष्ट्रध्वजारोहणं सर्वत्र भवति। देहलीनगरे ‘परेड’ (पथसञ्चलनकार्यक्रमं) स्वयं राष्टपतिः विदेशीयेन अतिथिना सह पश्यति। अत्र भूदलनौकादलवायुदलानां, सीमासुरक्षादलस्य, एन.सी.सीजनानां, भारतीय-स्कौट- गाइडस्जनानां, गृहरक्षकदलस्य च गौरवप्रदानकार्यं प्रचलति।

विविधराज्यैः निर्मितानां कलासंस्कृतिविषयकानां दृश्यरुपकानां प्रदर्शनं सुन्दरम् आकर्षकं च भवति। सर्वैः वन्दनानि स्वीकुर्वन् राष्ट्रपतिः सर्वेभ्यः शुभाशयं वदति। अस्मिन्त समये युद्धविमानानां शस्त्रास्त्राणां क्षिपणीनां प्रदर्शनं बलप्रदर्शनार्थम् आयोजयिष्यते। भारतीय नागरिकेषु प्रतिष्ठितानां पद्मप्रशस्तिः, वीरयोधानां परमवीरचक्रप्रशस्तिः, इत्यादि- प्रशस्तिप्रदानकार्याणि अपि प्रचलन्ति। प्रजाराज्योत्सवदिने मध्याह्ने सांस्कृतिककार्यक्रमाः भवन्ति। तत्र बहुविधनृत्यगीतहास्यनाटकादिषु बालाः सहर्षं भागं स्वीकुर्वन्ति।

**********

हम उम्मीद करते हैं कि हमारे द्वारा शेयर किया गया यह “गणतन्त्र दिवस पर संस्कृत निबंध (Essay on Republic Day in Sanskrit)” आपको पसंद आया होगा, इसे आगे शेयर जरूर करें। आपको यह कैसा लगा, हमें कमेंट बॉक्स में जरूर बताएं।

Read Also

यह पोस्ट आपके लिए कितनी उपयोगी रही?

कृपया स्टार पर क्लिक करके रेटिंग दें

Average rating 0 / 5. Vote count: 0

अब तक कोई वोट नहीं! इस पोस्ट को रेट करने वाले आप पहले व्यक्ति बनें!

हमें खेद है कि यह पोस्ट आपके लिए उपयोगी नहीं थी!

हमें इस पोस्ट में सुधार करने दें!

कृपया हमें बताएं कि हम इस पोस्ट को कैसे सुधार सकते हैं?

LEAVE A REPLY

Please enter your comment!
Please enter your name here